॥ राधाया हृदये कृष्णः कृष्णस्य हृदि राधिका ॥
Shri Krishnashtakam
श्री कृष्णाष्टकम्
श्रीकृष्णाष्टकम्
श्रियाश्लिष्टो विष्णुः स्थिरचरवपुर्वेदविषयो धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयनः । गदी शङ्खी चक्री विमलवनमाली स्थिररुचिः शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ १ ॥
यतः सर्वं जातं वियदनिलमुख्यं जगदिदं स्थितौ निःशेषं योऽवति निजसुखांशेन मधुहा। लये सर्वं स्वस्मिन् हरति कलया यस्तु स विभुः । शरण्यो० ॥ २ ॥
असूनायम्यादौ यमनियममुख्यैः सुकरणै-र्निरुध्येदं चित्तं हृदि विलयमानीय सकलम्। यमीड्यं पश्यन्ति प्रवरमतयो मायिनमसौ। शरण्यो० ॥ ३ ॥
पृथिव्यां तिष्ठन् यो यमयति महीं वेद न धरा यमित्यादौ वेदो वदति जगतामीशममलम् । नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमसौ। शरण्यो० ॥ ४॥
महेन्द्रादिर्दैवो जयति दितिजान् यस्य न कस्य स्वातन्त्र्यं क्वचिदपि कृतौ यत्कृतिमृते । कवित्वादेर्गर्वं परिहरति योऽसौ विजयिनः । शरण्यो० ॥ ५ ॥ बलतो
विना यस्य ध्यानं व्रजति पशुतां सूकरमुखां विना यस्य ज्ञानं जनिमृतिभयं याति जनता। विना यस्य स्मृत्या कृमिशतजनिं याति स विभुः । शरण्यो० ॥ ६।।
नरातङ्कोत्तङ्कः घनश्यामः वामो शरणशरणो भ्रान्तिहरणो व्रजशिशुवयस्योऽर्जुनसखः । स्वयम्भूर्भूतानां जनक उचिताचारसुखदः । शरण्यो० ॥ ७॥
यदा तदा धर्मग्लानिर्भवति जगतां क्षोभकरणी लोकस्वामी प्रकटितवपुः सेतुधृगजः । सतां धाता स्वच्छो निगमगणगीतो व्रजपतिः । शरण्यो० ॥ ८ ॥
इति हरिरखिलात्माराधितः श्रुतिविशदगुणोऽसौ शंकरेण मातृमोक्षार्थमाद्यः ।
यतिवरनिकटे श्रीयुक्त स्वगुणवृत उदारः आविर्बभूव शङ्खचक्राब्जहस्तः ॥ ९ ॥
॥ श्रीमच्छङ्कराचार्यकृतं कृष्णाष्टकं सम्पूर्णम् ॥
Related Bhajans
Discover more devotional songs