॥ राधे राधे ॥

।। श्रीहनुमत्ताण्डवस्तोत्रम् ।।
वन्दे सिन्दूरवर्णाभं लोहिताम्बरभूषितम्,।
रक्ताङ्गरागशोभाढ्यं शोणापुच्छं कपीश्वरम्।।
भजे समीरनन्दनं, सुभक्तचित्तरञ्जनं,।
दिनेशरूपभक्षकं, समस्तभक्तरक्षकम्।।
सुकण्ठकार्यसाधकं, विपक्षपक्षबाधकं,।
समुद्रपारगामिनं, नमामि सिद्धकामिनम्।।
सुशङ्कितं सुकण्ठभुक्तवान् हि यो ।
हितं वचस्त्वमाशु धैर्य्यमाश्रयात्र वो भयं कदापि न।।
इति प्लवङ्गनाथभाषितं निशम्य ।
वानराऽधिनाथ आप शं तदा, स रामदूत आश्रयः।।
सुदीर्घबाहुलोचनेन, पुच्छगुच्छशोभिना,।
भुजद्वयेन सोदरीं निजांसयुग्ममास्थितौ।।
कृतौ हि कोसलाधिपौ, कपीशराजसन्निधौ,।
विदहजेशलक्ष्मणौ, स मे शिवं करोत्वरम्।।
सुशब्दशास्त्रपारगं, विलोक्य रामचन्द्रमाः,।
कपीश नाथसेवकं, समस्तनीतिमार्गगम्।।
प्रशस्य लक्ष्मणं प्रति, प्रलम्बबाहुभूषितः ।
कपीन्द्रसख्यमाकरोत्, स्वकार्यसाधकः प्रभुः।।
प्रचण्डवेगधारिणं, नगेन्द्रगर्वहारिणं,।
फणीशमातृगर्वहृद्दृशास्यवासनाशकृत् ।।
विभीषणेन सख्यकृद्विदेह जातितापहृत्,।
सुकण्ठकार्यसाधकं, नमामि यातुधतकम्।।
नमामि पुष्पमौलिनं, सुवर्णवर्णधारिणं।
गदायुधेन भूषितं, किरीटकुण्डलान्वितम्।।
सुपुच्छगुच्छतुच्छलङ्कदाहकं सुनायकं ।
विपक्षपक्षराक्षसेन्द्र-सर्ववंशनाशकम्।।
रघूत्तमस्य सेवकं नमामि लक्ष्मणप्रियं ।
दिनेशवंशभूषणस्य मुद्रीकाप्रदर्शकम्।।
विदेहजातिशोकतापहारिणम् प्रहारिणम्।
सुसूक्ष्मरूपधारिणं नमामि दीर्घरूपिणम्।।
नभस्वदात्मजेन भास्वता त्वया कृता महासहा ।
यता यया द्वयोर्हितं ह्यभूत्स्वकृत्यतः।।
सुकण्ठ आप तारकां रघूत्तमो विदेहजां।
निपात्य वालिनं प्रभुस्ततो दशाननं खलम्।।
इमं स्तवं कुजेऽह्नि यः पठेत्सुचेतसा नरः ।
कपीशनाथसेवको भुनक्तिसर्वसम्पदः।।
प्लवङ्गराजसत्कृपाकताक्षभाजनस्सदा।
न शत्रुतो भयं भवेत्कदापि तस्य नुस्त्विह।।
नेत्राङ्गनन्दधरणीवत्सरेऽनङ्गवासरे,
लोकेश्वराख्यभट्टेन हनुमत्ताण्डवं कृतम्।।
।।इति श्री हनुमत्ताण्डव स्तोत्रम्।।
Discover more devotional songs