॥ राधाया हृदये कृष्णः कृष्णस्य हृदि राधिका ॥
Shri Satyanarayan Ashtakam Stotram Sanskrit
श्रीसत्यनारायणाष्टकम्
श्रीसत्यनारायणाष्टकम्
आदिदेवं जगत्कारणं श्रीधरं लोकनाथं विभुं व्यापकं शङ्करम्। सर्वभक्तेष्टदं मुक्तिदं माधवं सत्यनारायणं विष्णुमीशम्भजे ॥ १ ॥
सर्वदा लोककल्याणपारायणं देवगोविप्ररक्षार्थसद्विग्रहम् । दीनहीनात्मभक्ताश्रयं सुन्दरं सत्य० ॥ २ ॥
दक्षिणे यस्य गङ्गा शुभा शोभते राजते सा रमा यस्य वामे सदा। यः प्रसन्नाननो भाति भव्यश्च तं सत्य० ॥ ३ ॥
सङ्कटे सङ्गरे यं जनः सर्वदा स्वात्मभीनाशनाय स्मरेत् पीडितः । पूर्णकृत्यो भवेद् यत्प्रसादाच्च तं सत्य० ॥ ४॥
वाञ्छितं दुर्लभं यो ददाति प्रभुः साधवे स्वात्मभक्ताय भक्तिप्रियः । सर्वभूताश्रयं तं हि विश्वम्भरं सत्य० ॥ ५ ॥
ब्राह्मणः साधुवैश्यश्च तुङ्गध्वजो येऽभवन् विश्रुता यस्य भक्त्यामराः । लीलया यस्य विश्वं ततं तं विभुं सत्य० ॥ ६ ॥
येन चाब्रह्मबालतृणं धार्यते सृज्यते पाल्यते सर्वमेतज्जगत् । भक्तभावप्रियं श्रीदयासागरं सत्य० ॥७॥
सर्वकामप्रदं सर्वदा सत्प्रियं वन्दितं देववृन्दैर्मुनीन्द्रार्चितम् । पुत्रपौत्रादिसर्वेष्टदं शाश्वतं सत्य० ॥८॥
अष्टकं सत्यदेवस्य भक्त्या नरः भावयुक्तो मुदा यस्त्रिसन्ध्यं पठेत् । तस्य नश्यन्ति पापानि तेनाग्निना इन्धनानीव शुष्काणि सर्वाणि वै ॥ ९ ॥
॥ श्रीसत्यनारायणाष्टकं सम्पूर्णम् ॥
Related Bhajans
Discover more devotional songs