॥ राधाया हृदये कृष्णः कृष्णस्य हृदि राधिका ॥
Ganesh Pancharatna Stotram Sanskrit
गणेशपञ्चरत्नम्
गणेशपञ्चरत्नम्
मुदा करात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरञ्जकम्।
अनायकैकनायकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥ १ ॥ विनाशितेभदैत्यकं
नतेतरातिभीकरं नमत्सुरारिनिर्जरं नवोदितार्क भास्वरं नताधिकापदुद्धरम् ।
महेश्वरं सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २ ॥
समस्तलोकशङ्करं दरेतरोदरं वरं निरस्तदैत्यकुञ्जरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं नमस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ ३ ॥
अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्।
प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं कपोलदानवारणं भजे पुराणवारणम् ॥ ४ ॥
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मज-
मचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्तयामि संततम् ॥ ५ ॥
महागणेशपञ्चरत्नमादरेण योऽन्वहं प्रगायति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥ ६ ॥
॥ श्रीमच्छङ्कराचार्यकृतं गणेशपञ्चरत्नस्तोत्रं सम्पूर्णम् ॥
Related Bhajans
Discover more devotional songs